|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.97. अध्यायः 097
Mahabharata - Drona Parva - Chapter Topics
द्रोणधृष्टद्युम्नयोर्युद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-97-0x(4512)(48489)
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रमे रोमहर्षणे।
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन्॥ 7-97-1(48490)
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत।
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे॥ 7-97-2(48491)
किरंस्तु शरवर्षाणि रोचमान इवांशुमान्।
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे॥ 7-97-3(48492)
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्।
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम्॥ 7-97-4(48493)
सङ्क्षये तु तथाभूते वर्तमाने महाभये।
द्वन्दवीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्॥ 7-97-5(48494)
द्रोणः पाञ्चालपुत्रेण बली बलवता सह।
यदक्षिपत्पृषत्कौघांस्तदद्भुतमिवाभवत्॥ 7-97-6(48495)
पुण्डरीकवनानीव विध्वस्तानि समन्ततः।
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः॥ 7-97-7(48496)
विनिकीर्णानि वीराणामनीकेषु समन्ततः।
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च॥ 7-97-8(48497)
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च।
कोविदारा इवाभान्ति पुष्पितास्तत्र भारत।
तावकाः समरे योधाः पाण्डवेयाश्च विक्षताः॥ 7-97-9(48498)
कुञ्जराश्वनरान्ये पातयन्ति स्म पत्रिभिः।
तालमात्राणि चापानि विकर्षन्तो महारथाः॥ 7-97-10(48499)
असिचर्माणि चापानि शिरांशि कवचानि च।
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम्॥ 7-97-11(48500)
उत्थितान्यगणेयानि कबन्धानि समन्ततः।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले॥ 7-97-12(48501)
गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा।
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष॥ 7-97-13(48502)
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम्।
विलुम्पमानाः केशांश्च मज्जाश्च बहुधा नृप॥ 7-97-14(48503)
आकर्षन्तः शरीराणि शरीरावयवांस्तथा।
नराश्वगजसङ्घानां शिरांशि च ततस्ततः॥ 7-97-15(48504)
कृतास्त्रा रणशिक्षाभिर्दीक्षिता रणशालिनः।
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा॥ 7-97-16(48505)
असिमार्गान्बहुविधान्विचेरुः सैनिका रणे।
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टसैः॥ 7-97-17(48506)
गदाभिः परिघैश्चान्यैरायुधैश्च भुजैरपि।
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गता नराः॥ 7-97-18(48507)
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः।
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः॥ 7-97-19(48508)
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः।
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च॥ 7-97-20(48509)
वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते।
धृष्टद्युम्नो हयानश्चैर्द्रोणस्य व्यत्यमिश्रयत्॥ 7-97-21(48510)
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः।
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे॥ 7-97-22(48511)
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः।
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः॥ 7-97-23(48512)
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम्।
असिचर्माददे वीरो धनुरुत्सृज्य भारत॥ 7-97-24(48513)
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा।
ईषायाः समतिक्रम्य द्रोणस्य रथमाविशत्॥ 7-97-25(48514)
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च।
जघनार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन्॥ 7-97-26(48515)
खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः।
न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत्॥ 7-97-27(48516)
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः।
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः॥ 7-97-28(48517)
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्।
द्रोणो द्रुपद पुत्रस्य खङ्गं च दशभिः शरैः॥ 7-97-29(48518)
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली।
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी॥ 7-97-30(48519)
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्।
धृष्टद्युम्नाय चिक्षेप वज्रं वज्रधरो यथा॥ 7-97-31(48520)
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत्॥ 7-97-32(48521)
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष।
द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः॥ 7-97-33(48522)
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे।
शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत्॥ 7-97-34(48523)
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान्।
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे॥ 7-97-35(48524)
ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः।
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन्॥ ॥ 7-97-36(48525)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तनवतितमोऽध्यायः॥ 97 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-97-26 युगसन्नहनेषु युगबन्धेषु॥ 5-97-36 अवाक्षित् अपनीतवन्तः॥ 5-97-97 सप्तनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|